|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.114. अध्यायः 114
Mahabharata - Udyoga Parva - Chapter Topics
गालवानुगतेन गरुडेन ययातिंगत्वा गालववृत्तान्तकथनपूर्वकं धनयाचनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-114-0(35706)
नारद उवाच। 5-114-0x(3724)
अथाह गालवं दीनं सुपर्णः पततां वरः।
निर्मितं वह्निना भूमौ वायुना शोधितं तथा।
यस्माद्धिरण्मयं सर्वं हिरण्यं तेन चोच्यते ॥ 5-114-1(35707)
धत्ते धारयते चेदमतस्मात्कारणाद्धनम् ।
तदेतत्रिषु लोकेषु धनं तिष्ठति शाश्वतम् ॥ 5-114-2(35708)
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा।
मनुष्येभ्यः समादत्ते शुक्रश्चित्तार्जितं धनम् ॥ 5-114-3(35709)
अजैकपादहिर्बुध्न्यौ रक्ष्येते धनदेन च।
एवं न शक्यते लब्धुमलब्धव्यं द्विजर्षभ ।
ऋते च धनमश्वानां नावाप्तिर्विद्यते तव ॥ 5-114-4(35710)
स त्वं याचात्र राजानं कंचिद्राजर्षिवंशजम् ।
अपीड्य राजा पौरान्हि यो नौ कुर्यात्कृतार्थिनौ ॥ 5-114-5(35711)
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा ।
अभिगच्छावहे तं वै तस्यास्ति विभवो भुवि ॥ 5-114-6(35712)
ययातिर्नाम राजर्षिर्नोहुषः सत्यविक्रमः ।
स दास्यति मया चोक्तो भवता चार्थितः स्वयम् ॥ 5-114-7(35713)
विभवश्चास्य सुमहानासीद्धनपतेरिव ।
एवं गुरुधनं विद्वन्दानेनैव विशोधय ॥ 5-114-8(35714)
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम्।
प्रतिष्ठाने नरपतिं ययातिं प्रत्युपस्थितौ ॥ 5-114-9(35715)
प्रतिगृह्य च सत्कारैरर्घ्यपाद्यादिकं वरम् ।
पृष्टश्चागमने हेतुमुवाच विनतासुतः ॥ 5-114-10(35716)
अयं मे नाहुष सखा गालवस्तपसो निधिः ।
विश्वामित्रस्य शिष्योऽभूद्वर्षाण्ययुतशो नृप ॥ 5-114-11(35717)
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः।
तमाह भगवान्किं ते ददानि गुरुदक्षिणाम् ॥ 5-114-12(35718)
असकृत्तेन चोक्तेन किंचिदागतमन्युना ।
अयमुक्तः प्रयच्छेति जानता विभवं लघु ॥ 5-114-13(35719)
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् ।
अष्टौ शतानि मे देहि हयानां चन्द्रवर्चसाम् ॥ 5-114-14(35720)
गुर्वर्थो दीयतामेव यदि गालव मन्यसे ।
इत्येवमाह सक्रोधो विश्वामित्रस्तपोधनः ॥ 5-114-15(35721)
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः ।
अशक्तः प्रतिकर्तुं तद्भवन्तं शरणं गतः ॥ 5-114-16(35722)
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः ।
कृत्वाऽऽपवर्गं गुरवे चरिष्यति महत्तपः ॥ 5-114-17(35723)
तपसः संविभागेन भवन्तमपि योक्ष्यते।
स्वेन राजर्षितपसा पूर्णं त्वां पूरयिष्यति ॥ 5-114-18(35724)
यावन्ति रोमाणि हये भवन्तीह नरेश्वर ।
तावन्तो वाजिनो लोकान्प्राप्नुवन्ति महीपते ॥ 5-114-19(35725)
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् ।
शङ्खे क्षीरमिवासक्तं भवत्वेतत्तथोपमम् ॥ ॥ 5-114-20(35726)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-114-1 हिर्वह्निः वह्निशब्दघटकवर्णलोपादिना हिशब्दस्य निष्पन्नत्वात्। एवं रमणीयशब्दनिष्पन्नरणशब्दवाच्यो वायुः क्रमेण ताभ्यां जातत्वाच्छोधितत्वाच्च हिरण्यमित्युच्यते। यस्माच्च सर्वं जगत् हिरण्मयं हिरण्यप्रधानकं तेन च हिरण्यमित्युच्यत इत्यर्थः । हिरण्यस्य हितत्वाद्रमणीयत्वाच्च जगत्पतिप्राधान्यम् ॥ 5-114-2 धत्ते पुष्णाति। धारयते जीवयति ॥ 5-114-3 प्रोष्टपदाभ्याम्। तस्मिन्नक्षत्रद्वये शुक्रे शुक्रवासरे तद्योगे सति धनपतौ कुबेरस्य वृद्ध्यर्थम् ॥ 5-114-5 याच याचस्व ॥ 5-114-8 विशोधय परिहर ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|